|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.107. अध्यायः 107
Mahabharata - Udyoga Parva - Chapter Topics
विश्वामित्रोक्तलक्षणाश्वाधिगमोपायापरिज्ञानेन शोचता गालवेन स्वार्थलाभाय श्रीविष्णूपासनम् ॥ 1 ॥ सुहृदा गरुडेन गालवमुपगम्य स्वेन तस्याभिमतदेशप्राणकथनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
नारद उवच। 5-107-0x(3713)(35545)
एवमुक्तस्तदा तेन विश्वामित्रेण धीमता।
नास्ते न शेते नाहारं कुरुते गालवस्तदा ॥ 5-107-1(35546)
त्वगस्थिभूतो हरिणाश्चिन्ताशोकपरायणः।
शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ।
गालवो दुःखितो दुःखाद्विललाप सुयोधन ॥ 5-107-2(35547)
कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कृतः ।
हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ॥ 5-107-3(35548)
कुतो मे भोजने श्रद्धा सुखश्रद्धा कुतश्च मे।
श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ॥ 5-107-4(35549)
अहं पारे समुद्रस्य पृथिव्या वा परं परात्।
गत्वाऽऽत्मानं विमुञ्चामि किं फलं जीवितेन मे ॥ 5-107-5(35550)
अदनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः ।
ऋणं धारयमाणस्य कुतः सुखमनीहया ॥ 5-107-6(35551)
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् ।
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ 5-107-7(35552)
प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः ।
मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ॥ 5-107-8(35553)
न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः ।
नानृतस्याधिपत्यं च कुत एव गतिः शुभा ॥ 5-107-9(35554)
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥ 5-107-10(35555)
न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम्।
पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् ॥ 5-107-11(35556)
सोऽहं पापः कृतघ्नस्य कृपणश्चानृतोऽपि च ।
गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् ॥ 5-107-12(35557)
सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ।
अर्थिता न मया काचित्कृतपूर्वा दिवौकसाम् ॥ 5-107-13(35558)
मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे।
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् ।
विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ॥ 5-107-14(35559)
भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान्।
प्रणतो द्रष्टुमिच्छामि कृष्णं योगिनमव्ययम् ॥ 5-107-15(35560)
एवमुक्ते सखा तस्य गरुडो विनतात्मजः ।
दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ॥ 5-107-16(35561)
सहृद्भवान्मम मतः सुहृदां च मतः सुहृत्।
ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ॥ 5-107-17(35562)
विभवश्चास्ति मे विप्र वासवावरजो द्विज ।
पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ॥ 5-107-18(35563)
5-107-19(35564)
स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् ।
देशं पारं पृथिव्या वा गच्छ गालव मा चिरम् ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-107-5 परं परात् दूरादपि दूरम्। आत्मानं देहम् । 5-107-6 अनीहया अनुद्यमेन ॥ 5-107-7 ईप्सितं दास्यामीति विश्वासमुत्पाद्य ॥ 5-107-8 करिष्येतीति संधिरार्षः ॥ 5-107-9 अनृतस्य सत्यहीनस्य ॥ 5-107-11 तन्त्रणं कुटुम्बधारणम् ॥ 5-107-14 अत्राहमितिपदस्य द्विरावृत्तिर्वक्तुर्वैक्लव्याददोषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|